Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कोरोना रोगः पुनश्च वर्धमानः अस्ति। भारते २४ होरासु देशे १५९० नवीनाः कोरोनारोगिणः प्राप्ताः। एते विगत १४६ दिवसेषु सर्वाधिकाः सन्ति । देशे सक्रियप्रकरणाः ८ सहस्राणि ६०१ यावत् वर्धिताः सन्ति । शुक्रवासरे अपि कोरोनारोगेण ६ जनाः मृताः। तेषु महाराष्ट्रे त्रयाणां,  कर्नाटक-राजस्थान-उत्तरखण्डेषु एकस्य एकस्य मृत्युः अभवत् ।

सम्प्रति महाराष्ट्र-गुजरात-केरल-दिल्ली-कर्नाटक-राज्येषु अधिकतमाः रोगिणः पञ्जीकृताः सन्ति। कोरोना-रोगस्य अन्तिमतरङ्गद्वये एतानि राज्यानि सर्वाधिकानि प्रभावितानि आसन् । एतत् दृष्ट्वा केन्द्रीयस्वास्थ्यमन्त्रालयस्य सचिवः राजेशभूषणः सर्वेभ्यः राज्येभ्यः केन्द्रीयक्षेत्रेभ्यः च पत्रं लिखितवान् अस्ति। सः राज्येभ्यः कोरोनापरीक्षणं वर्धयितुं परिस्थितौ दृष्टिं च स्थापयितुं अवदत्।

 

अद्यतनवार्ता

भारतम्

विश्वम्