मथुरानगरस्य श्रीकृष्णजन्मभूमि-शाही-इदगाह-विवाप्रकरणे उच्चन्यायालयेन हिन्दुपक्षस्य मस्जिदस्थानं विवादास्पदसंरचनारूपेण घोषयितुं कृता याचिका न्यायालयेन निरस्तीकृता। हिन्दुपक्षस्य कृते एतत् महत् विघ्नं मन्यते।
न्यायमूर्ते: राममनोहरनारायणमिश्रस्य एकया पीठिकया एतत् प्रकरणं श्रुतमासीत्। सम्प्रति प्रकरणस्यास्य अग्रिमश्रवणतिथिः दत्ता अस्ति। अधुना अग्रिमश्रवणं २०२५ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्के भविष्यति।