Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अरबसागरे उद्भूत: बिपरजॉय चक्रवातः गुजरातदेशं प्रति आगच्छति। अयं चक्रवात: कच्छमण्डलस्य जखौ-खातं प्रति जूनमासस्य १५ दिनाङ्के अपराह्ने आगमिष्यति। वायुविज्ञानविभागस्य अनुसारं मंगलवासरे अयं चक्रवात: किञ्चित् दुर्बलः अभवत् यद्यपि अद्यापि भयङ्करः अस्ति। 

अपरपक्षे अमितशाहः अद्य दिल्लीनगरे राज्यानां केन्द्रीयक्षेत्रविभागस्य आपदाप्रबन्धनमन्त्रिभिः सह समागमं कृतवान्। सः बिपरजॉय-चक्रवातस्य निवारणाय आपदा-प्रबन्धनार्थं ८००० कोटिरूप्यकाणां ३ बृहत् योजनानां घोषणां कृतवान् ।

अस्मिन् अग्निशामकदलस्य आधुनिकीकरणं, जलप्लावननियन्त्रणं, भूस्खलनघटनानां निवारणं च अन्तर्भवति । तदनन्तरं गुजरातसर्वकारेण कच्छ-सौराष्ट्रे तटतः १० कि.मी.अन्तर्गतं ७ मण्डलेभ्यः २१,००० जना निष्कास्य आश्रयगृहेषु प्रेषिता: ।

अद्यतनवार्ता

भारतम्

विश्वम्