एलोन् मस्क् इत्यस्य समवायद्वारा वर्षाणां परिश्रमस्य अनन्तरम् अमेरिकादेशस्य टेक्सास्-नगरे रोबोट्-टैक्सी-सेवा आरब्धा अस्ति। अस्यां टैक्सीसेवायां यानचालक: न भविष्यति। टेस्ला-मॉडेल्-वाई-एसयूवी-कारयानं जनान् एकस्थानात् अन्यस्मिन् स्थाने नेष्यन्ति। एलोन् मस्कस्य कृते एषः ऐतिहासिकः क्षणः अस्ति। अस्मिन् नगरे १० तः २० यावत् टेस्ला मॉडल् वाई एसयूवी-वाहनानि चाल्यन्ते। एतानि यानानि केवलं नगरस्य विशेषक्षेत्रे एव भमणं करिष्यन्ति। अपि च निर्धारितक्षेत्रत: बहि: अपि न गमिष्यन्ति। एतानि रोबोट्-टैक्सी-यानानि केवलं दक्षिण-मध्य-अस्टिन्-नगरे एव प्रचलिष्यन्ति। अपि च यत्र यातायातः भवति तत्र मार्गेषु न गमिष्यन्ति।