Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

शनिवासरे काश्मीरस्य अनन्तनागस्य गडुल् कोकेरनाग् इत्यत्र सुरक्षाबलेन एकः आतङ्कवादी मारितः। अत्र सुरक्षाबलानाम् आतङ्कवादिनां च सङ्घर्षः १२ सेप्टेम्बर् दिनाङ्कात् अर्थात् ५ दिवसेभ्य: प्रचलति। गडुल-नगरे वर्षायामपि उभयतः गुलिकाप्रहार: प्रचलन् अस्ति। सुरक्षाबलानाम् अनुसारम् अत्र अन्यस्य आतङ्कवादिन: निगूढस्य सम्भावना अस्ति। अत्र अपि सेना ड्रोन्-माध्यमेन क्षेत्रस्य निरीक्षणं कुर्वती अस्ति । अनन्तनाग-नगरे प्रचलति सङ्घर्षे एकः सैनिकः, एकः पुलिस-अधिकारी च वीरगतिं प्राप्तवन्तौ। 

अद्यतनवार्ता

भारतम्

विश्वम्