Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

न्यूनतमसमर्थनमूल्येन (MSP) अपि च अन्यविषयाणां कृते कृषकसङ्घटनानां प्रतिनिधीनां केन्द्रसर्वकारस्य मन्त्रिणां च चतुर्थचरणस्य चर्चा निष्फला जाता। सर्वकारस्य उत्तरं प्रतीषमाणा: पञ्जाबस्य सीमायां उपविष्टानि कृषकसङ्घटनानि देहलीं प्रति गन्तुं घोषितवन्तः, अद्य ते डबवालीनगरं प्राप्तवन्तः। आरक्षकदलेनस रसामण्डले सुरक्षा दृढा कृता अस्ति। शम्भूसीमायां सीमेण्ट-अवरोधान् भङ्गयितुं जेसीबी-यन्त्राणि, पोक्लान्-यन्त्राणि च प्राप्तानि सन्ति । एतदतिरिक्तं यन्त्रसञ्चालकानां अश्रुवायु-रबरगोलिकाभ्यां रक्षणाय अपि परिवर्तनं कृतम् अस्ति। याने चालककक्ष: लोहपत्रैः सुरक्षित: कृत: अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्