कर्नाटके कोंग्रेसदलेन सत्ता तु प्राप्ता परन्तु सत्ताधीशस्य प्रश्नः दलं दु:खीकरोति। पञ्चदिनानाम् चर्चाया: अनन्तरं राष्ट्रियनेतॄणां हस्तक्षेपेण अधुना मध्यवर्ती मार्गः प्राप्तः अस्ति। सिद्धारमैया मुख्यमन्त्री शिवकुमारः च उपमुख्यमन्त्री भविष्यति। लोकसभानिर्वाचनस्य आह्वानं दृष्टिपथे संस्थाप्य शिवकुमारः विकल्पोऽयं समयेन अङ्गीकृतवान् अस्ति। विकल्पानुसारं शिवकुमारः राज्याध्यक्षरूपेण अपि कार्यं करिष्यति। मुख्यमन्त्री शिवकुमारेण सह चर्चां कृत्वा एव तस्य सहमत्या सर्वान् निर्णयान् करिष्यति। शिवकुमारस्य गणस्य विधायकान् यथायोग्यं मन्त्रिपदं दास्यति इति।
नैके पाचकाः भोजनं दूषयन्ति इति उक्ति:। कदाचित् कर्नाटकजनाः अपि चिन्तयिष्यन्ति यत् एतत् किम् अभवत्? किं अस्माभिः योग्य: निर्णयः न कृतः वा !!





















