Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बुधवासरे रात्रौ प्रायः ९:२० वादने कोलकातानगरस्य नेताजी सुभाषचन्द्रबोस-अन्ताराष्ट्रियविमानस्थानके अग्निः प्रज्वलितः। अग्निशामकदलस्य ३ वाहनानि स्थानं प्राप्तानि सन्ति। अग्निप्रकोपसमये यात्रिकाः अपि बहुसंख्याकाः आसन्। विमानस्थानकस्य 3C प्रस्थानस्थानकभवने अग्निः प्रज्वलितः। यात्रिकाः अपि चेकइन इति प्रवेशप्रक्रियां कुर्वन्त: आसन्। प्रारम्भिकसूचनानुसारं अग्निः परिवहनमेखलातः आरब्धः। परिस्थित्यानुसारं विमानस्थानकात् विमानयानस्य परिचालनं स्थगितम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्