Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नवदिल्लीनगरे प्रचलत: जी-२० शिखरसम्मेलनस्य प्रथमदिने एव संयुक्तघोषणायां सहमतिः जाता अस्ति। शनिवासरे द्वितीयसत्रस्य आरम्भे पीएम मोदी अध्यक्षत्वेन सर्वेषां सदस्यदेशानां सहमत्या दिल्लीघोषणाम् पारितवान्। घोषणाया: अनन्तरं विदेशमन्त्री एस जयशंकरः अवदत् यत् सर्वे देशाः नवदिल्लीघोषणाम् अङ्गीकृतवन्तः। सर्वे नेतारः सहमताः यत् जी-२० राजनैतिकविषयेषु चर्चां कर्तुं मञ्चः नास्ति। अतः अर्थव्यवस्थासम्बद्धानां महत्त्वपूर्णानां विषयाणां चर्चा भविष्यति। परन्तु अस्मिन् घोषणपत्रे युक्रेनयुद्धस्य उल्लेखः चतुर्वारं जात: अस्ति। सर्वे देशाः सततविकासलक्ष्येषु कार्यं करिष्यन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्