Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

“अद्भूता इयं यात्रा। अभिवादनम् मम प्रियाः देशवासिनः। वयं ४१ वर्षाणां अनन्तरं अन्तरिक्षं पुनरागता:। एषा अन्तरिक्षयात्रा यथार्थतया अद्भूता अस्ति। वयं सम्प्रति पृथिवीं परित: ७.५ किलोमीटर् (प्रति सेकण्ड्) वेगेन परिभ्रमाम: ।” भारतीयः अन्तरिक्षयात्री शुभांशशुक्लः अद्य, जून २५, २०२५ दिनाङ्के, अमेरिकादेशस्य केनेडी-अन्तरिक्षकेन्द्रात् (फ्लोरिडा) प्रातः २:३१ वादने (भारतीयसमये: अद्य मध्याह्ने १२:०१) वादने, ग्रेस् कैप्सूल् (स्पेसएक्स् इत्यस्य ड्रैगन कैप्सूलस्य नूतनं नाम) इत्यत्र उपविश्य अन्यवैज्ञानिकयात्रै: सह अन्तरिक्षयात्राम् आरब्धवान्, तस्य दशनिमेशाभ्यन्तरे एव तेन अयं सन्देश: प्रेषित:।

पूर्वं १९८४ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्के भारतीयवायुसेनायाः विंग-कमान्डर् राकेश-शर्मा सोवियत-सङ्घस्य सोयुज-टी-११ इति अन्तरिक्षयानेन अन्तरिक्षयात्राम् अकरोत् । एवं राकेशशर्मा भारतात् प्रथमः अन्तरिक्षयात्री यः पृथिव्याः बहिः गतः । अधुना भारतीयवायुसेनायाः ग्रुप-कमान्डर् शुभांशुशुक्लः अन्तरिक्षयात्रायां गतः द्वितीयः भारतीयः अन्तरिक्षयात्री अभवत् । परन्तु शुभांशुशुक्लः ISS-सङ्घं गतः प्रथमः भारतीयः अन्तरिक्षयात्री इति विशेषतया गौरवपूर्णः अवसरः अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्