Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ChatGPT, Bard च इत्यनयोः अनन्तरं अधुना स्पर्धायां AI chatbot अस्ति। एतस्मिन् उपक्रमे गीतया प्रेरितेन गुगल इत्यस्य अभियन्त्रा सुकुरु-साई-विनीतेन आर्टिफिसियल् इन्टेलिजेन्स इत्यस्य उपयोगेन गीता-GPT इति तन्त्रांशं रचितम् अस्ति। एतस्य उपयोगेन जनाः स्वस्य दैनंदिनसमस्यानां समाधानं क्षणेनैव प्राप्तुं शक्नुवन्ति। प्राप्तविवरणानुसारं उपयोगकर्तार: यं प्रश्नं प्रक्ष्यन्ति तस्य समाधानाय Gita-GPT भगवद्गीताया: उपदेशेभ्यः समाधानं वदिष्यति। गीताजीपीटी प्राचीनहिन्दुशास्त्रेषु भगवद्गीतायाः ज्ञानं प्रज्ञां च उपयुज्य उपयोक्तृभ्यः जीवननिर्णयेषु मार्गदर्शनं बोधं च प्रदाति। 

अद्यतनवार्ता

भारतम्

विश्वम्