Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सामाजिककार्यकर्ता तीस्ता सेतलवाड् इत्यस्याः प्रतिभूविषयः सर्वोच्चन्यायालयस्य बृहत्तरे पीठे प्रेषितः भविष्यति। अस्मिन् प्रकरणे सर्वोच्चन्यायालयस्य द्वयोः न्यायाधीशयो: मध्ये मतभेद: जात: अत: प्रकरणमिदं सी.जे.आइ समक्षं प्रेषितमस्ति।

गुजरातस्य उच्चन्यायालयेन शनिवासरे तीस्तायाः प्रतिभूयाचना अनङ्गीकृत्य तत्क्षणमेव आत्मसमर्पणं कर्तुम् उक्तम् आसीत्। तदनन्तरं तीस्ता सर्वोच्चन्यायालये याचिकाम् कृतवती आसीत् ।

तीस्ता सेतलवाड् इत्यस्य उपरि आरोपः अस्ति यत् सः २००२ तमे वर्षे गुजरातसंघर्ष-सम्बद्धेषु प्रकरणेषु निर्दोषान् जनान् पीडयितुं मिथ्यासाक्ष्यं कल्पितवती आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्