Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

खालिस्ता-आतङ्कवादिन: हरदीपसिंहनिज्जरस्य हत्यायाः विषये भारतकेनेडादेशयोः मध्ये उग्रसमस्या जायमाना अस्ति। इदानीं केनेडादेशे अन्यः अपराधी हरप्रीतसिंहः अज्ञातैः आक्रमणकारिभिः गोलिकाभिः हतः। अनेन केनेडादेशे कोलाहलः उत्पन्नः अस्ति । केनेडादेशस्य पुलिसदल: अस्य प्रकरणस्य अन्वेषणं कुर्वन् अस्ति। हरप्रीतसिंहेन सह तस्य ११ वर्षीयः पुत्रः अपि आक्रमणकर्तृभिः गोलिकाभिः मारितः। एषा घटना केनेडादेशस्य एडमन्टननगरे अभवत्। केनेडादेशे वर्धमानस्य दलहिंसायां हतः हरप्रीतसिंहः भारतीयमूलस्य सिक्खः आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्