Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयजनतादलेन विधानसभायाः घोषणापत्रं सङ्कल्पपत्ररूपेण प्रसारितम्। घोषणापत्रसमिति-अध्यक्षेण उक्तम् यत् सङ्कल्पपत्रेऽस्मिन् प्रत्येकं वर्गं लक्ष्यीकृत्य योजनाः सङ्कल्पिताः सन्ति। एतदर्थं प्रायः 25000 जनानां मतानि स्वीकृतानि सन्ति।

अस्मिन् सङ्कल्पपत्रे सर्वकारीयसेवायां 33 प्रतिशतम् आरक्षणं महिलाभ्यः, द्वादशजनपदेषु बालिकाछात्रावासानां निर्माणं, महिलाभ्यः स्त्रीशक्तिपत्रं, द्वादशकक्षायां 5000 स्तरप्राप्तछात्रेभ्यः प्रतिमासं 2500 रूपयकाणां छात्रवृत्तिः, अटलपेन्शनयोजना, अन्नपूर्णायोजना, शगुनयोजना, प्रसविनीभ्यः 25000 राशिः, विद्यालयछात्राभ्यः साइकिल स्कूटी वा, ग्राममार्गयोजना, अष्ट लक्ष-जनेभ्यः जीविकाप्रदानम्, समाननागरिकसंहिता-इत्यादयः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्