Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकतः सर्वकार: देशे सर्वत्र अयोध्यायां प्राणप्रतिष्ठायाः सज्जतां प्रबलतया कुर्वन् अस्ति, अपरतः विपक्षनेतारः तस्मिन् दिने आमन्त्रणे सत्यपि तत्र न गमिष्यन्ति। कार्यक्रमोऽयं भा.ज.दलस्य संघस्य च इति उक्तवन्त: ते नेतार: तस्मिन् एव दिने मन्दिरं गन्तुं योजनां कुर्वन्त: सन्ति। 'I.N.D.I.A.' संघस्य दलानां कार्यकर्तार: मन्दिरेषु गत्वा कार्यक्रमान् आयोजयितुं निश्चयं कृतवन्तः। तदर्थं काङ्ग्रेसदलस्य सांसद: राहुलगान्धी गुवाहाटीनगरस्य शिवमन्दिरे कामाख्यामन्दिरे च दर्शनं करिष्यति, पश्चिमबङ्गस्य मुख्यमन्त्री ममता बेनर्जी कोलकातानगरे कालीपूजां करिष्यति। दिल्लीनगरस्य मुख्यमन्त्री अरविन्द केजरीवालः सुन्दरकाण्डस्य पाठं करिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्