Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इलाहाबाद उच्चन्यायालयेन गुरुवासरे वाराणसीनगरस्य ज्ञानवापीपरिसरस्य सर्वेक्षणस्य आदेशः दत्तः। न्यायालयेनोक्तं यत् यथाशीघ्रं सर्वेक्षणं समापनीयम् परन्तु मुस्लिमपक्षः अस्य निर्णयस्य विरुद्धं सर्वोच्चन्यायालयं गत:। 

ततः पूर्वं श्रृंगारगौरीप्रकरणे मुख्ययाचिकाकर्ता राखीसिंहेन सर्वोच्चन्यायालये पूर्वयाचिका दत्ता। अर्थात् मुस्लिमपक्षस्य याचिकाविषये कस्यापि निर्णयस्य पूर्वं तेषां पक्षस्य अपि श्रवणं करणीयम्। 

यदि सर्वोच्चन्यायालयः उच्चन्यायालयस्य आदेशं न स्थगयति तर्हि शुक्रवासरात् सर्वेक्षणं भविष्यति डी एम एस. राजलिंगम् इत्यनेन एतस्य पुष्टिः कृता अस्ति। उच्चन्यायालयस्य निर्णयानन्तरं वाराणसीनगरे एतस्य विषये एएसआइ-दलस्य, जिलाप्रशासनस्य च सभा अपि अभवत् ।

चित्रम् - सर्वेक्षणम् - मई २०२२

अद्यतनवार्ता

भारतम्

विश्वम्