Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य अहमदाबादनगरस्य नरेन्द्रमोदिक्रीडाङ्गणे भारतऑस्ट्रेलियादेशयोः मध्ये ICC क्रिकेट-विश्वचषकप्रतियोगिताया: अन्तिमक्रीडा जायमाना अस्ति। २० वर्षाणाम् अनन्तरं विश्वचषकप्रतियोगिताया: अन्तिमस्पर्धायां द्वावपि दलौ परस्परं क्रीडत:। आस्ट्रेलियादेशेन प्रथमं क्षेपणस्य निर्णय: कृत: आसीत्। भारतीयदलेन ५० षट्केषु २४० धावनाङ्का: प्राप्ताः। भारतेन आस्ट्रेलिया-देशस्य विजयाय २४१ रनस्य लक्ष्यं दत्तम् अस्ति। क्षेत्रस्य गुणवताकारणेन अधिकान् धावनाङ्कान् कर्तुं भारतस्य क्रीडका: न समर्था:। ओस्ट्रेलियादेशेन सम्यक् प्रदर्शनं कृतम्। अधुना भारतस्य विजयस्य आधार: कन्दुकक्षेपकेषु अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्