भारतेन तत्कालप्रभावेण बाङ्गलादेशात् शणस्य, तत्सम्बद्धानां तन्तुपदार्थानां च आयाते प्रतिबन्धः कृतः अस्ति । द्वयोः प्रतिवेशिनो: प्रवर्तमानसम्बन्धेषु वर्धमानस्य उग्रताया: वातावरणे एतत् पदं गृहीतम् अस्ति । सूत्रानुसारं शनिवासरे (२८ जून २०२५) उक्तं यत् महाराष्ट्रस्य न्हावा शेवा खातं विहाय सर्वेषु स्थलमार्गेषु खातप्रदेशेषु च बाङ्गलादेशात् भारते जूटस्य तत्सम्बद्धानां तन्तुपदार्थानां च आयाते नूतनाः प्रतिबन्धाः प्रवर्तन्ते। वाणिज्यमन्त्रालयस्य अन्तर्गतं कार्यं कुर्वन् विदेशव्यापारमहानिदेशालयः शुक्रवासरे प्रतिबन्धं कृत्वा अधिसूचना प्रसारिता। दक्षिण एशियाप्रदेशस्य मुक्तव्यापारक्षेत्रस्य प्रावधानानाम् अन्तर्गतं बाङ्गलादेशात् शण-उत्पादानां, विशेषतः तत्सम्बन्धिवस्तूनाम् आयातस्य प्रतिकूलप्रभावः दीर्घकालीनक्षतिं जनयिष्यति।