Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चीनदेशे प्रसृतस्य रहस्यमयज्वरस्य विषये भारतसर्वकारः सजगः अभवत्। शुक्रवासरे स्वास्थ्यमन्त्रालयेन उक्तं यत् उत्तरचीने बालकानां मध्ये H9N2 एच् ९ एन् २ संक्रमणे भारतसर्वकार: सततं निरीक्षणं कुर्वन् अस्ति। सम्प्रति भारते एवियन इन्फ्लूएन्जा इत्यस्य श्वसनरोगस्य च सङ्कट: न्यूनः अस्ति तथापि सर्वकारः कस्यापि आपत्कालस्य कृते सज्जः अस्ति। 

एतत् ज्ञातव्यं यत् गतसप्ताहेषु चीनदेशे न्यूमोनिया सादृश: रहस्यमयः रोगः तीव्रगत्या प्रसृतः अस्ति। बालकेषु अयं रोग: प्रसरित: अस्ति। उत्तरचीनदेशस्य चिकित्सालयाः अपि अस्य रोगस्य कारणेन पूरिता: सन्ति। कोरोना-पश्चात् चीनदेशे प्रसृतः अयं रोगः विश्वे सर्वत्र चिन्तां वर्धयति।

अद्यतनवार्ता

भारतम्

विश्वम्