Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

श्रावणीपूर्णिमाया: दिनं विश्वसंस्कृतदिनरूपेण समग्रे विश्वे सोत्साहम् आचर्यते। नैकेषु विद्यालयेषु महाविद्यालयेषु संस्थासु च तन्निमित्तं विविधा: कार्यक्रमा: अपि आयोज्यन्ते। संस्कृतदिनम् उपलक्ष्य गुजरातस्य कच्छप्रदेशस्य संस्कृताभिमानिभि: कार्यकर्तृभि: किमपि नूतनं कर्तुं सङ्कल्पितम्। तदर्थं स्थानिका: कार्यकर्ता

श्रावणीपूर्णिमाया: दिनं विश्वसंस्कृतदिनरूपेण समग्रे विश्वे सोत्साहम् आचर्यते। नैकेषु विद्यालयेषु महाविद्यालयेषु संस्थासु च तन्निमित्तं विविधा: कार्यक्रमा: अपि आयोज्यन्ते। संस्कृतदिनम् उपलक्ष्य गुजरातस्य कच्छप्रदेशस्य "कच्छमित्र" इति प्रख्यातवर्तमानपत्रस्य सम्पादकेन दीपकभाई मांकड महोदयेन  न्यासिना हार्दिकमहोदयेन च किमपि नूतनं कर्तुं सङ्कल्पितम्। संस्कृतभारत्या: संस्कृताभिमानिभि: स्थानिककार्यकर्तृभि: सह चिन्तनानन्तरं निर्णितं यत् गुजरातीवर्तमानपत्रस्य प्रथमस्य अन्तिमस्य पृष्ठस्य वार्तानां सर्वाणि अपि शीर्षकानि संस्कृतेन एव भवेयु:।  तदर्थं स्थानिका: कार्यकर्तार: अमीतगोर:, अनिरुद्धसिंह: पार्थगोर: प्रा.डॉ.पङ्कजठाकर: इत्यादय: सहयोगं दत्तवन्त:। गुजरातीभाषा: वर्तमानपत्रे देवभाषाया: कृते कृतज्ञताज्ञापनाय प्रसाराय च अयं प्रयास: अद्भूतम् अनन्यं प्रशंसनीयम् च। कदाचित् समग्रे भारते अयं प्रप्रथम: प्रयोग:। सर्वै: पाठकै: प्रयासोऽयं प्रशंसित:। अयं प्रयोग: व्होट्सएप फेसबुक इत्यादिषु सामाजिकमाध्यमेषु प्रसरन् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्