Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एयर इण्डिया विमानयाने सिगरेट्-शलाकया धूमपानं कुर्वन् एकः यात्री गृहीतः। एषा घटना मार्चमासस्य ११ दिनाङ्के जाता। प्राप्तवृत्तानुसारं लण्डन्-नगरात् मुम्बई-नगरं प्रति गच्छति विमानयाने एकः अमेरिकनयात्री शौचालये धूमपानं कुर्वन् आसीत् । यदा चालकदलस्य सदस्याः तं निवारितवन्तः तदा सः क्रोशितुम् आरब्धवान् । सः विमानस्य द्वारं अपि उद्घाटयितुं प्रयतितवान् । तदनन्तरं चालकदलसदस्याः तस्य हस्तपादौ अबध्नन्।

विमानस्य मुम्बईनगरे अवतरणानन्तरं एतस्याः घटनायाः सूचना आरक्षकदलैः प्राप्ता। ३७ वर्षीयस्य रमाकान्तस्य विरुद्धं आरक्षकैः प्रकरणं पञ्जीकृतम्। एकः अधिकारी अवदत् – यात्री भारतीयमूलस्य अस्ति, परन्तु अमेरिकादेशस्य नागरिकता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्