Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हमास-इजरायलयोः मध्ये प्रचलत: युद्धस्य ३१ तमे दिने गाजा-पट्टिकायां आक्रमणानि वर्धितानि सन्ति । सोमवासरे प्रातःकाले इजरायलस्य सेना प्रचण्डं विस्फोटप्रहारं कृतवती । गाजानगरस्य अलशातिशरणार्थीशिबिरं लक्ष्यीकृत्वा आक्रमणं जातमासीत् यस्मिन् ४० जनाः मृताः। इजरायलस्य रक्षासेना विगत २४ घण्टासु ४५० तः अधिकानि गूढस्थानानि नष्टानि इति श्रूयते। अस्मिन् आतङ्कवादिशिबिरं, सैन्यपरिसर: अवलोकनस्थानकं, टङ्कविरोधीक्षेपणास्त्रप्रक्षेपणस्थानकं च अन्तर्भवन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्