Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इटली-सर्वकारेण वैदेशिकभाषायाः विषये महत् निर्णयः कृतः अस्ति। एतदर्थं संसदि विधायकः प्रस्तुतः। अस्य अन्तर्गतं इटलीदेशस्य जनाः स्वदेशे आङ्ग्लभाषायाः अन्यस्य वा भाषायाः उपयोगं कर्तुं न शक्ष्यन्ति । यदि कोऽपि अन्यभाषायाः उपयोगं करोति चेत्  एकलक्षं यूरो अर्थात् ८९,३३,४५८ लक्षं रूपयकाणां दण्डः भविष्यति। प्रस्तावः अयं  जियोर्जिया मेलोनी इत्यस्याः “ब्रदर्स ओफ इटली” दलेन प्रस्तुतः। विषयेऽस्मिन् संसदि चर्चा भविष्यति। यदि प्रस्तावः ततः पारित: भवति तर्हि इटलीदेशे आङ्ग्लसहितानाम् अन्यवैदेशिकभाषाणां प्रयोगः प्रतिबन्धितः भविष्यति।

विश्वे अनेके देशाः स्वस्य ऐतिहासिक्याः सांस्कृतिकभाषायाः एव प्रयोगं कुर्वन्ति यथा रशिया, जापान, चीन, फ्रांस इत्यादयः। एते देशाः आङ्ग्लसहितानां वैदेशिकभाषाणां प्रयोगस्य विरोधं कुर्वन्ति। यतोहि समग्रे विश्वे आङ्ग्लभाषायाः प्रचलनम् अधिकम् अस्ति परन्तु स्वसंस्कृत्यभिमानिनः विश्वजनाः स्वभाषां प्रयुज्य स्वसभ्यतां रक्षितुं प्रयत्नं कुर्वन्ति। भारतेन अपि एतत् चिन्तनीयं यत् आङ्ग्लभाषायाः प्रयोगेण किं आदिभाषायाः संस्कृतस्य प्रादेशिकभाषायाः च ह्रासः तु न भवति!!

अद्यतनवार्ता

भारतम्

विश्वम्