Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

झारखण्डस्य जामताडामण्डले बुधवासरे रात्रौ एकः हृदयविदारिणी रेलदुर्घटना अभवत्। कलझारिया-समीपे रेलयानेन १२ जनाः आहताः येषु रेलमार्गस्य समीपे द्वयोः जनयो: मृतशरीरे प्राप्ते। बहवः अपि क्षतिग्रस्ताः अभवन्। तेषु केषाञ्चन स्थितिः गम्भीरा अस्ति। ते सर्वे आसनसोल-झाझा-रेलयानेन गच्छन्ति स्म इति कथ्यते। अभियान्त्रिकदोषात् कालझारियासमीपे रेलयानं स्थगितम्। अस्मिन् काले जनाः रेलयानात् अवतीर्य रेलमार्गे स्थितवन्तः । तदानीं आगच्छता भागलपुर-यशवन्तपुर-एक्सप्रेस-यानेन दुर्घटना इयं घटिता।

अद्यतनवार्ता

भारतम्

विश्वम्