Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकपालस्य भ्रष्टाचारविरोधिशाखया गतदिने कर्णाटकस्य भाजपादलस्य नेतुः विरुपक्षप्पामदलस्य पुत्र: प्रशान्त-मदल: ४० लक्ष्यरूप्यकाणि उत्कोचग्रहणकाले गृहीतः। तस्य कार्यालयात् १.७ कोटिरूप्यकाणां धनराशिः अपि प्राप्ता। कर्णाटकस्य लोकपालेन उक्तं यत् प्रशान्तमदलः बीडब्ल्यूएसएसबी इत्यत्र मुख्यलेखाधिकारी अस्ति। अद्य लोकपालस्य अधिकारिभिः बेङ्गलूरुनगरे प्रशातमदलस्य आवासे आपातः कृतः। तत्र अपि अधिकारिभिः प्रायः ६ कोटिरूप्यकाणि प्राप्तानि सन्ति, इतोऽपि अन्वेषणं प्रचलति।

अद्यतनवार्ता

भारतम्

विश्वम्