Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पंजाबदेशे क्रमशः द्वितीयदिने अपि खलिस्तानसमर्थकस्य ‘वारिस पंजाब दे’ इति संस्थायाः प्रमुखस्य अमृतपालस्य निग्रहणाय अभियानं प्रचलत् अस्ति। जालन्धरस्य डीआइजी स्वपनशर्मणा पत्रकारसम्मेलने पाकिस्तानीगुप्तचरसंस्थायाः आईएसआई इत्यनेन सह अमृतपालस्य सम्बन्धः प्रकटितः। एतादृशे सति अधुना अस्मिन् सन्दर्भे एनआईए इत्यस्य प्रवेशः शक्यः।

प्राप्तविवरणानुसारं अमृतपालः आनन्दपुर खालसा फोर्स (AKF) इति स्वकीयायाः निजसेनायाः निर्माणस्य सज्जतां कृतवान् आसीत्। तस्य गृहे अपि च प्राप्तेषु शस्त्रेषु ए.के.एफ. - आनन्दपुर-खालसा-फोर्स इति लिखितं प्राप्तम्। 

अमृतपालस्य अधिवक्ता इमानसिंह: खारा रविवासरे पंजाब-चण्डीगढ-उच्चन्यायालये हबियास-कार्पस इति अपराधि-प्रत्यक्षीकरण-याचिकाम् प्रस्थापितवान्। अस्यां याचिकायां पञ्जाबपुलिसदलेन अमृतपालसिंह: गृहीत: इति प्रतिपादनं कृतमस्ति। याचिकानुसारं पञ्जाब-आरक्षकैः अमृतपाल: गृहीतः परन्तु तस्य गृहीतत्वं न दर्शितम्।

अद्यतनवार्ता

भारतम्

विश्वम्