Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रविवासरे लंदननगरे भारतीय-उच्चायोगे खालिस्तानसमर्थका: आक्रमणं कृत्वा भारतीयध्वजं निष्कासितवन्तः। तदनु अधिकारिभिः भारतीयध्वजं पुनः स्थापितम्। मङ्गलवासरे भारतीयउच्चायोगात् बहिः शतशः भारतीयनागरिकाः एकत्रिताः अभवन्। अत्र अनेके सिक्खधर्मावलम्बिनः अपि आगत्य एकतायाः सन्देशं दत्तवन्तः। सर्वे भारत माता की जय, जय हिन्द इति उद्घोषैः वातावरणे भारतीयत्वं जनितवन्तः। प्रदर्शनकारिणः भारतीयचलच्चित्रस्य स्लमडॉग् मिलियनेर् इत्यस्य आस्कर-विजेता गीतं 'जय हो' इति नृत्यमपि कृतवन्तः। तस्मिन् एव काले कश्चन ब्रिटिश-पुलिस-अधिकारी भारतीय-कन्यया सह नृत्यं कर्तुं प्रयत्नमपि कृतवान्।

खालिस्तानसमर्थकानां दुष्कृत्यस्य विरोधाय समागतानां जनानां मध्ये एकः अवदत् – केचन जनाः भारते अत्र च शान्तिवातावरणं विघटयितुं प्रयतन्ते। एतेभ्यः जनेभ्यः उत्तरं दातव्यम्।

 

अद्यतनवार्ता

भारतम्

विश्वम्