Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कार्यपरिषदः उपवेशनं  मे मासस्य ०२ तमे दिनाङ्के पूर्वाह्ने ११:०० वादनतः अभवत्।  सभायाः अध्यक्षता माननीयकुलपतिः आचार्यविजयकुमारसीजीमहोदयः अकरोत्।  सभायाः आरम्भे सर्वैः कार्यपरिषद्सदस्यैः उच्चशिक्षामन्त्रिणः डॉ. मोहनयादवस्य कृतज्ञताज्ञापनम् अभिनन्दनं च कृत्वा शुभकामनाः प्रदत्ता: यत् तस्यैव अथकपरिश्रमस्य भागीरथप्रयासस्य च कारणेन विश्वविद्यालयस्य वार्षिकम् अनुरक्षणम् अनुदानधनं २.२७ कोटिरुप्यकै: वर्धयित्वा ५ कोटिरूप्यकाणि यावज्जातम् ।  एतेन सह माननीयमन्त्रिमहोदयस्य प्रयत्नात् निर्माणानुदानधनमपि प्राप्तुं सम्भावना वर्तते।      दीक्षांतसमारोहस्य अनुमोदनं कार्यपरिषदि अभवत्। दीक्षांतसमारोहः मेमासस्य अन्तिमसप्ताहे भविष्यति। विश्वविद्यालये कार्यं कुर्वतां योग्यानां दैनिकवेतनभुक्कर्मचारिणां कृते स्थायीश्रमिकयोजनायाः लाभं प्रदातुं निर्णयः कृतः तथा च तेषां प्रकरणानां निवारणाय नियमितीकरणाय च सक्षमः प्राधिकारि: मन्त्रालयं, भोपालं गत्वा उच्चस्तरात् प्रकरणानां समाधानं करिष्यति।विश्वविद्यालयशिक्षणविभागानां संस्कृतस्य पुराणेतिहासस्य च सहायकप्राध्यापकस्य अनुसूचितजनजातिवर्गे चयनप्रक्रियायाः परिणामान् अपि कार्यपरिषद् अनुमोदितवती अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्