Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संक्रान्तिः 'सूर्यस्य एकस्मात् राशितः अन्यराशिं प्रति संक्रमणम्' इति अर्थः । सम्पूर्णे वर्षे आहत्य १२ सङ्क्रान्तयः भवन्ति । एतासु चतसृषु सङ्क्रान्तिषु मेष-कर्क-तुला-मकरसंक्रान्तय: च महत्त्वपूर्णाः सन्ति। पौषमासे सूर्यस्य धनुराशिं त्यक्त्वा मकरराशिं प्रति प्रवेशः मकरसंक्रान्तिः इति। 

उत्तरभारते अस्य उत्सवस्य नाम ‘मकरसङ्क्रान्ति:, पञ्जाबे लोहरी, गढ़वाले खिचडीसंक्रान्तिः, गुजरातदेशे उत्तरायणरूपेण, तमिलनाडुदेशे पोङ्गलरूपेण, कर्नाटक-केरल-आन्ध्रप्रदेशेषु तु केवलं संक्रान्तिः इति उच्यते। 

एषा संक्रमणप्रक्रिया षण्मासानां अन्तरे भवति। पृथिव्याः अक्षस्य २३.५ अंशं तिर्यक्त्वात् सूर्यः पृथिव्याः उत्तरगोलार्धस्य समीपे षड्मासान् यावत् भवति, शेषषड्मासाः दक्षिणगोलार्धस्य समीपे एव भवति। मकरसंक्रान्त्याः पूर्वं सूर्यः दक्षिणगोलार्धस्य समीपे भवति अर्थात् उत्तरगोलार्धात् तुल्यकालिकरूपेण दूरे भवति, यस्मात् कारणात् उत्तरगोलार्धे रात्र्य: दीर्घाः, दिवसाः अल्पाः च भवन्ति। परन्तु मकरसंक्रान्तितः सूर्यः उत्तरगोलार्धं प्रति गन्तुं आरभते। अतः अस्मात् दिनात् उत्तरगोलार्धे रात्र्य: लघ्व्य:, दिवसाः दीर्घाः च भवितुम् आरभन्ते, शिशिरस्य शीतलता न्यूनीभवितुं आरभते। अतः मकरसंक्रान्तिः अन्धकारस्य न्यूनीकरणस्य प्रकाशवृद्धेः च आरम्भः अस्ति। वस्तुतः सर्वे जीवाः (पशवः, पक्षिणः, वनस्पतयः अपि) प्रकाशं इच्छन्ति । निद्रातः जागरणं प्रति जगत् गच्छति। अधिकप्रकाशस्य कारणात् जीवानां चेतना, कार्यशक्तिः च वर्धते। प्रकाशः ज्ञानस्य प्रतीकः अन्धकारः अविद्यायाः प्रतीकः अस्ति। भारतदेशः उत्तरगोलार्धे स्थितः अस्ति, अतः भारतीयसंस्कृतौ मकरसंक्रान्तिः अतीव महत्त्वपूर्णा अस्ति। भारतस्य जनाः अस्मिन् दिने सूर्यदेवस्य पूजां कृत्वा तं प्रति कृतज्ञतां प्रकटयन्ति। 

सम्पूर्णविश्वस्य सर्वेषु उत्सवेषु मकरसंक्रान्तिः सम्भवतः एकमात्रः उत्सवः अस्ति यस्य सम्बन्धः कस्यापि स्थानीयपरम्परायाः, विश्वासस्य, स्थानीयघटनायाः विषये वा नास्ति, अपितु खगोलीयघटनायाः, वैश्विकभूगोलस्य, विश्वकल्याणस्य भावस्य च आधारेण भवति तथा सम्पूर्णस्य मानवतायाः ( उत्तरगोलार्धस्य ९०% जनसंख्यायाः) कृते अभिप्रेतम् अस्ति। मकरसंक्रान्तिः न केवलं भारतराष्ट्रस्य अपितु सम्पूर्णस्य मानवतायाः उत्सवः अस्ति।

अस्मिन् दिने भगवान् भास्करः स्वयं स्वपुत्रस्य शनिश्चरस्य गृहं गच्छति। शनिदेव: मकरस्य स्वामी अस्ति। शास्त्रानुसारम् अस्मात् दिवसात् एव देवानां दिवसगणना आरभते। यदा सूर्यः दक्षिणायने तिष्ठति तदा सः कालः देवरात्रिः इति उच्यते, उत्तरायणस्य षण्मासाः च दिवस: इति उच्यन्ते । दक्षिणायनं नकारात्मकतायाः प्रतीकं, उत्तरायणं च सकारात्मकतायाः प्रतीकं मन्यते । भगवद्गीतायाः अष्टमे अध्याये भगवान् श्रीकृष्णः कथयति यत् उत्तरायणस्य षण्मासेषु ये शरीरं त्यक्त्वा गच्छन्ति ते ब्रह्मगतिम् आप्नुवन्ति यदा तु दक्षिणायनस्य षण्मासेषु ये शरीरं त्यजन्ति ते कर्मानुसारं स्वर्गसुखानन्तरं पुनः संसारं प्राप्नुवन्ति।

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।8.24।।

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।8.25।।

एतदेव कारणम् आसीत् यत् महाभारतयुद्धस्य समाप्तेः अनन्तरं भीष्मपीतामह: पीडां प्राप्य शयने शयानः आसीत्, मकरसंक्रान्तिं प्रतीक्षमाणः आसीत्। कथ्यते यत् मकरसंक्रान्तिदिने गङ्गाजी भगीरथस्य अनुसरणं कृत्वा कपिलमुने: आश्रमं तत:समुद्रं प्राप्तवती अपि च भगीरथस्य पूर्वजस्य सगरस्य पुत्राणां मुक्तिं दत्तवती आसीत्। अतः अस्मिन् दिने गङ्गासागरतीर्थक्षेत्रे कपिलमुने: आश्रमे मेलकस्य आयोजनं भवति। तीर्थराजप्रयागे आयोजिते कुम्भमेलके माघीमेलके च प्रथमं स्नानमपि अस्मिन् दिने भवति। 

मकरसंक्रान्तिदिने गङ्गास्नानं, सूर्यपूजनं, तीर्थस्थलेषु दानं च विशेषतया शुभं भवति। अस्मिन् अवसरे दत्तं दानं शतगुणं प्रत्यागच्छति इति विश्वासः अस्ति। मकरसंक्रान्त्याः अवसरे गङ्गायाः स्नानं, गङ्गातीरे दानं च अतीव शुभं मन्यते। मकरसंक्रान्तिदिने तिलस्य महत्त्वम् अस्ति। उच्यते यत् तिलमिश्रितेन जलेन स्नानं, तिलतैलेन शरीरस्य अभ्यङ्ग: यज्ञे तिलसमर्पणं, तिलमिश्रितस्य जलस्य पानं, तिलैः सह भोजनं….. इत्यादिनां प्रयोग: मकरसंक्रान्तौ सद्फलं यच्छति

आयुर्वेदे तिलं कासनिवारकं, पुष्टिवर्धकं च औषधं इति प्रसिद्धम् अस्ति। प्रकृतौ उष्णं अतः शिशिरेषु मधुररूपेण भक्ष्यते। गजक, रेवडी, मोदकरूपेण शिशिरे उष्णतां ददति ।

मकरसंक्रान्त्यां अनेकस्थानेषु वाताटोत्सव: (पतंग महोत्सव) आचर्यन्ते । प्राचीनभारतीयसाहित्ये अपि वाताटवाहनस्य उल्लेखः अस्ति। रामचरितमानसस्य बालकाण्डे श्रीरामस्य वाताटस्य वर्णनम् अस्ति। एषः शिशिरस्य समयः अस्ति तथा च अस्मिन् ऋतौ प्रातःकाले सूर्यप्रकाशः शरीरस्य स्वास्थ्यवर्धकः भवति तथा च त्वच: अस्थिनां च कृते अतीव लाभप्रदः भवति।

मकरसंक्रान्तिः एकदिनपूर्वं हरियाणा-पञ्जाबयोः लोहरी इति नाम्ना जनवरी-मासस्य १३ दिनाङ्के आचर्यते। अस्मिन् दिने सूर्यास्तस्यनन्तरं अग्निपूजनं क्रियते। अग्निदेवस्य पूजार्थं तिल-गुड-तण्डुल-भृष्टलवेटिका(कोर्न) इत्यादिनां च नैवेद्यं भवति। अस्मिन् अवसरे जनाः मूंगफली-तिल-रेवडी-निर्मितस्य गजकस्य परस्परं वितरणं भवति। नववध्वा: नवजातस्य च कृते लोहरी इत्यस्य विशेषं महत्त्वम् अस्ति।

राजस्थान-गुजरातयोः अस्मिन् दिने वाटाट-उड्डयनस्य परम्परा अस्ति। अन्ताराष्ट्रियमहोत्सवस्य आयोजनं गुजरातपर्यटनविभागेन अहमदाबादनगरे भवति। उत्तरप्रदेशे मुख्यतया 'दानस्य उत्सवः' अस्ति। संक्रांतिदिने स्नानानन्तरं दानं कृत्वा खिचडीभक्षणस्य, खिचडीदानस्य च महत्त्वम् अपि अस्ति।गोरखपुरस्य गोरखनाथमन्दिरे खिचडीं अर्पयितुं प्रातःकाले जनाः एकत्रिताः भवन्ति। मकरसंक्रान्तिमहापर्वणि गोरखनाथमन्दिरे गुरुगोरक्षनाथं प्रति लक्षशः भक्ताः खिचडी (चावल-मसूर, उराद) अर्पयित्वा स्वस्य आस्थां भक्तिं च दर्शयन्ति।

बिहारे मकरसंक्रान्तिः खिचडी इति नाम्ना प्रसिद्धा अस्ति । अस्मिन् दिने उराद-तण्डुल-तिल-चिवडा-गो-सुवर्ण-ऊनवस्त्र-कम्बलादिनां दानस्य स्वकीयं महत्त्वम् अस्ति। बङ्गदेशे प्रतिवर्षम् अस्मिन् उत्सवे गंगासागरे विशालमेलकम् आयोज्यते।

असमदेशे मकरसंक्रान्तिः माघ-बिहू अथवा भोगली-बिहू इति नाम्ना आचर्यते। उत्सवस्य प्रथमदिनम् उरुका इति कथ्यते। रात्रौ सामूहिकभोजनं भवति यस्मिन् नवधान्यानां प्रयोगः भवति। कुक्कुटमहिषयोः युद्धं भवति। लोकगीतानि लोकनृत्यानि च आचर्यन्ते।

महाराष्ट्रे अस्मिन् दिने सर्वाः विवाहिताः महिलाः प्रथमसंक्रान्त्यां अन्येभ्यः विवाहितेभ्यः महिलाभ्यः कार्पासं, तैलं, लवणं च दानं कुर्वन्ति। जनाः तिलगुडं च परस्परं ददति तथा च दत्त्वा वदन्ति - "लिळ गूळ ध्या आणि गोड़ गोड़ बोला"  अर्थात् तिलगुड़ं गृहीत्वा मधुरं वद। 

आन्ध्रप्रदेशे तेलङ्गानादेशे च प्राङ्गणे तण्डुलपिष्टात् मग्गू निर्मितं भवति, तस्य समीपे बालिकाः उपविश्य गीतानि गायन्ति। परदिने जनाः अग्निकुण्डं प्रज्वाल्य लोकगीतनृत्यैः मनोरञ्जनं कुर्वन्ति।

तमिलनाडुदेशे अयं उत्सवः ऋतुपर्व पोङ्गल इति चतुर्दिनानि यावत् आचर्यते। प्रथमे दिने भोगी-पोङ्गल, द्वितीयदिने सूर्य-पोङ्गल, तृतीये दिने मट्टू-पोङ्गल अथवा केनू-पोङ्गल चतुर्थे अन्तिमे दिने कन्या-पोङ्गल। प्रथमे दिने अवकरं सङ्गृह्य दह्यन्ते, द्वितीये दिने सूर्यः पूज्यते। पोङ्गल-उत्सवस्य कृते स्नानं कृत्वा नूतनसस्यतण्डुलैः इक्षुरसेन च मुक्ताङ्गणे मृत्तिकाघटे पोङ्गल् (खीर) निर्मीयते । तदनन्तरं नैवैद्यं सूर्यदेवाय समर्प्यते। तदनन्तरं सर्वे खीर प्रसादं स्वीकुर्वन्ति। अस्मिन् दिने पशवः अलङ्कृताः क्रियन्ते, तमिलनाडु-देशस्य प्रसिद्धः क्रीडा जल्लीकट्टु इति।तृतीये दिने पशुधनं पूज्यते। चतुर्थे दिने पुत्र्या: जामातु: च विशेषेण स्वागतं भवति।

तथैव कर्णाटके तिरुपतिबालाजीयात्रा मकरसंक्रान्तिदिने समाप्ता भवति। केरले अस्मिन् दिने सबरीमालामन्दिरे, त्रिशूरस्य कोडुगलूरदेवी-मन्दिरे च भक्तानां समूहः एकत्रितः भवति।

नेपालदेशे मकरसंक्रान्तिः माघे-संक्रान्तिः, सूर्योत्तरायणः, थारुसमुदाये च माघी इति कथ्यते। नेपालसर्वकारः अस्मिन् दिने सार्वजनिकावकाशं ददाति। एषः थारुसमुदायस्य महत्त्वपूर्णः उत्सवः अस्ति । नेपालस्य शेषाः समुदायाः अपि तीर्थस्थले स्नानं कृत्वा दानं कुर्वन्ति, तिलं, घृतं, शर्करां, कन्दमूलानि च खादित्वा उत्सवं कुर्वन्ति । 

अस्य उत्सवस्य माध्यमेन भारतीयसभ्यतायाः संस्कृते: च दर्शनं विविधरूपेण भवति। विशालभारतस्य विविधतायां निहितस्य एकतायाः अखण्डतायाः च अद्वितीयं उदाहरणं मकरसंक्रान्तिः अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्