Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्लीनगरे भ्रष्टाचारप्रकरणे गृहीतौ अरविन्दकेजरीवालसर्वकारस्य मन्त्रिणौ मनिषसिसोदिया सत्यन्द्रजैन: च  मंगलवासरे स्वपदात् त्यागपत्रं दत्तवन्तौ। समाचारसंस्थायाः अनुसारं मुख्यमन्त्री केजरीवालः अपि द्वयोः त्यागपत्रं स्वीकृतवान् अस्ति। सिसोदिया CBIद्वारा २६ फरवरी दिनाङ्के मद्यनीतिप्रकरणे गृहीतः आसीत्। सत्येन्द्रजैनः गतवर्षस्य मे ३०तः धनशोधनप्रकरणे तिहारकारागारे स्थापितः अस्ति। सिसोदिया केजरीवालसर्वकारस्य सर्वाधिकं शक्तिशाली मन्त्री आसीत् । तस्य आहत्य ३३ विभागेषु १८ विभागाः आसन् । जैनस्य समीपे स्वास्थ्यं, उद्योगसहितं ७ मन्त्रालयानाम् दायित्वं आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्