Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

I.N.D.I.A. सङ्घटने दलानां मध्ये लोकसभानिर्वाचनस्य स्थानानां कृते आधिपत्यस्य विवाद: जायमान अस्ति। पञ्जाबप्रान्ते आपदल: स्वतन्त्रं योद्धुम् इच्छति। भाजप-दलं कथञ्चिदपि पराजयं दातुं सर्वे पक्षा: स्व स्व मत्या कार्यं कुर्वन्ति परन्तु न कोऽपि लाभ:। कोंग्रेसं पुनर्जीवितं कर्तुं राहुलेन ’भारत जोडो’ इति यात्राया: आरम्भ: कृत: अस्ति परन्तु तस्य स्वस्य दले एव नैके कार्यकर्तार: नेतार: सांसदा: कोंग्रेसदलेन असन्तुष्टा: सन्ति। नैके कार्यकर्तार: नेतार: वा पक्षं त्यक्तवन्त:। इतोऽपि बहिर्गमनं चलदस्ति। कोंग्रेसकार्यकर्तार: ’कोंग्रेस छोडो’ इति अभियानं चालयति इति भासते। कमलनाथ: कमलायते इति सम्भावना अस्ति। अद्य प्राप्तवार्तानुसारं पञ्जाबस्य लोकसभासांसद: मनीषतिवारी अपि कोंग्रेसदलं त्यक्ष्यति इति कथ्यते। पश्याम: तावत मनीषस्य मनीषा (मनस: इच्छा) का? 

अद्यतनवार्ता

भारतम्

विश्वम्