Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य ऐतिहासिक: दिवस: अद्य। भारतं प्रथम: देश: य: चन्द्रस्य दक्षिणध्रुवे अवकाशयानं प्रेषितवान् अस्ति। चद्रयानद्वितीयस्य निष्फलताया: अनन्तर: कृतभूरिपरिश्रमाणां समर्पितानां भारतीयवैज्ञानिकानां चतुर्णां वर्षाणां परिश्रमकारणात् विघ्नं विना चन्द्रयानं-३ चन्द्रे सफलतापूर्वकं अवतरणं अकरोत्। एतस्य अभियानस्य उपरि समग्रस्य विश्वस्य दृष्टि: आसीत्। एतस्य अभियानस्य कृते दिनेभ्य: समग्रे भारते उत्साहपूर्णं वातावरणम् आसीत्। कोटिश: जना: एतस्य सफलतायै समूहप्राथनां पूजां च कृतवन्त: आसन्। अवतरणस्य अनन्तरं भारतस्य प्रधानमन्त्री दक्षिण-आफ्रिकात: आभासीयमाध्यमेन धन्यवादसन्देशं ज्ञापितवान्। 

अद्यतनवार्ता

भारतम्

विश्वम्