वायुविज्ञानविभागेन झारखण्डराज्यं विहाय देशस्य सर्वेषु राज्येषु आगामिषु २४ घण्टासु प्रचण्डवृष्टेः सचेतना प्रकटिता अस्ति। विगत २४ घण्टासु बिहारे पृथक् पृथक् विद्युत्पातेन १५ जनाः मृताः। राज्ये नद्यः अपि संकटचिह्नस्य उपरितः प्रवहन्ति। २९ जूनतः ५ जुलैपर्यन्तं बिहारे १३४ मि.मी., गुजराते १३३ मि.मी., उत्तरप्रदेशे ७८ मि.मी. अपि च छत्तीसगढे अस्मिन् काले केवलं ३६ मि.मी. वृष्टि: जाता अस्ति।





















