Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य अपराह्णे अबुधाबीनगरस्य प्रथमे हिन्दुमन्दिरे प्रतिमायाः प्राणप्रतिष्ठासमारोहः समायोजित:। प्रधानमन्त्री नरेन्द्रमोदी सायंकाले अबुधाबीनगरस्य प्रथमं हिन्दुमन्दिरं प्राप्तवान्। यत्र सः BAPS अक्षरपुरुषोत्तम स्वामिनारायण मन्दिरस्य उद्घाटनं कृतवान्। महत्त्वपूर्णं यत् प्रधानमन्त्री मोदी यात्रायाः प्रथमदिने यूएई-राष्ट्रपतिं मिलितवान्। इतः स: कतारं प्रति प्रस्थास्यति। कतारदेशे सः शेख तमीम बिन् हमद अल थानी इत्यनेन सह मिलितुं शक्नोति। एतदतिरिक्तं प्रधानमन्त्री कतारदेशे कैश्चित् गणमान्यजनै: सह मेलनस्य सम्भावना वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्