Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य नवदिल्लीनगरे जी-२० शिखरसम्मेलनम् आरब्धम् अस्ति। अस्मिन् कार्यक्रमे यदा प्रधानमन्त्री नरेन्द्रमोदी भारतमण्डपे उद्घाटनभाषणं दत्तवान् तदा यत् चित्रं उद्भूतं तत् सर्वेषां ध्यानं आकर्षितवान्। प्रधानमन्त्रिणः मोदिन: अग्रे देशस्य नामफलके भारत इति लिखितम्, न तु INDIA। अन्ताराष्ट्रियकार्यक्रमे प्रधानमन्त्रिणः आसनस्य पुरतः INDIA इति देशस्य नाम प्रथमवारं न लिखितम्। अस्मिन् अवसरे स्मृति इरानी प्रधानमन्त्रिण: चित्रं प्रसार्य अवदत् – श्रद्धायाः विश्वासस्य च नाम – भारतम्। विवादोऽयं तदा आरब्धः यदा राष्ट्रपतिभवनेन आयोजिते रात्रिभोजस्य निमन्त्रणपत्रे PRESIDENT OF INDIA इति स्थाने PRESIDENT OF BHARAT इति लिखितं आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्