Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मोदीसर्वकारस्य विरुद्धं विपक्षदलैः आनितः अविश्वासप्रस्तावः गुरुवासरे अर्थात् १० अगस्तदिनाङ्के पतितः। अन्ततः प्रधानमन्त्री नरेन्द्रमोदी अविश्वासप्रस्तावस्य उत्तरं दत्तवान्। मोदी २ घण्टा १२ निमेषान् यावत् भाषणं कृतवान्, यस्मिन् सः १ घण्टा ५२ निमेषाणाम् अनन्तरं मणिपुरविषये अवदत्। यदा प्रधानमन्त्री मणिपुरविषये स्वकथनम् आरब्धवान् तदा विपक्षः पूर्वमेव सदनात् बहिः गतः आसीत् ।

प्रधानमन्त्रिण: उद्बोधनस्य मुख्यांशा: -

  • एषा सर्वकारस्य तलपरीक्षा न, अपितु विपक्षस्य
  • विरोधस्य अविश्वासः अस्माकं कृते हितकरः अस्ति
  • राजनीति प्राथमिकता भवतां कृते
  • यूयं सिद्धतां कृत्वा न आगताः
  • अयं समयः देशस्य कृते अतीव महत्त्वपूर्णः अस्ति
  • अविश्वासप्रस्तावस्य आच्छादने जनविश्वास: भग्न:
  • भारतस्य उपलब्धिषु विपक्षस्य अविश्वासः
  • येषां अवहेलना कृता तेषां उन्नति: जाता
  • यदि तृतीयवारं सर्वकारस्य निर्माणं भवति तर्हि वयं विश्वस्य तृतीया अर्थव्यवस्था भविष्यामः।
  • अनेकेषु स्थानेषु काङ्ग्रेसस्य विजयाय वर्षाणि यावत् समयः अभवत् अर्थात् काङ्ग्रेसस्य अविश्वासः
  • काङ्ग्रेस-सदस्याः गान्धिनः नाम अपि अपहृतवन्तः
  • परिवारसदस्यं विहाय प्रधानमन्त्री स्वीकार्यः नास्ति
  • मणिपुरे पुनः शान्तिसूर्य: भविष्यति
  • काङ्ग्रेसेन मिजोरमराज्ये पञ्जाबप्रदेशे च आक्रमणं कृतम्
  • मणिपुरसमस्यायाः पृष्ठतः केवलं काङ्ग्रेसराजनीतिः
  • २०२८ तमे वर्षे सज्जीभूय आगच्छन्तु
  • मणिपुरराज्यस्य उपयोग: राजनीतये मा कुरु

अद्यतनवार्ता

भारतम्

विश्वम्