Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरभारते पश्चिमविक्षोभस्य सक्रियताकारणात् उत्तरभारतस्य केषुचित् राज्येषु न केवलं वर्षायाः सम्भावना वर्तते, अपितु पर्वतीयक्षेत्रेषु अपि नूतनहिमपातस्य पूर्वानुमानं क्रियते। विभागस्य पूर्वानुमानानुसारं सोमवासरात् गुरुवासरपर्यन्तं समतलक्षेत्रेषु तीव्रशैत्यं भवितुम् अर्हति। निहारकारणात् दिल्लीनगरस्य विमानस्थानके सोमवासरे अपि यातायातव्यवस्था बाधिता एव अभवत्। मध्याह्न १२ वादनपर्यन्तं बहूनि विमानयानानि भिन्नविमानस्थानकेषु प्रेषितानि, पुनः १०० तः अधिकानि विमानयानानि विलम्बितानि। सोमवासरस्य रात्रित: गुरुवासरस्य अपराह्णपर्यन्तं पञ्जाब-हरियाणा-उत्तरप्रदेश-उत्तराखण्ड-चण्डीगढ-राजस्थान-मध्यप्रदेशादिनां केषुचित् भागेषु न्यूनतमतं तापमानं इतोऽपि अध: गन्तुं शक्यते।

अद्यतनवार्ता

भारतम्

विश्वम्