Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गृहमन्त्रिरूपेण अमितशाहः प्रथमवारं पूर्वोत्तरराज्यानां यात्रायाम् अस्ति। अत्र स: “वाइब्रेन्ट विलेज प्रोग्राम” अपि च अन्ययोजनानां शुभारम्भार्थमागतः अस्ति। यात्रायां तेनोक्तं - “अरुणाचलप्रदेशस्य विशेषता अस्ति यत्, यदा भवन्तः अत्र जनान् मिलन्ति तदा ते ’नमस्ते’ इति न वदन्ति परन्तु ’जय हिन्द’ इति वदन्ति। अत्र कोऽपि अतिक्रमणं कर्तुं न शक्नोति, अस्य कारणम् अत्रत्यानां जनानां देशभक्तिः एव। भारते प्रथमः सूर्यकिरणः अस्मिन् स्थले पतति। भगवान् परशुरामः अरुणाचलप्रदेशः इति नामकरणं कृतवान् आसीत्।” सः अवदत् यत् आईटीबीपी-सेना-कर्मचारिणां वीरतायाः कारणात् कोऽपि अस्माकं देशं प्रति नेत्राणि उद्घाट्य द्रष्टुं न शक्नोति। इदानीं सः कालः गतः यदा कोऽपि भारतभूमौ अतिक्रमणं कर्तुं शक्नोति। 

एतस्या: यात्रायाः विरोधं कुर्वता व्याकुलेन चीनदेशेन उक्तं यत् अस्मिन् क्षेत्रे आधिकारिकगतिविधयः चीनस्य क्षेत्रीय-सम्प्रभुतायाः उल्लङ्घनमस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्