Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-रेलवे-द्वारा षोडश-मासेषु एव १७७ कर्मचारिण: निष्कासिताः। १३९ कर्मचारिणः अनिवार्यरूपेण निवृत्ताः। पीटीआई इति वार्ताप्रसारण-संस्थाया: अनुसारं अधिकारिभिः उक्तं यत् प्रत्येकं तृतीयदिने अकार्यरताः भ्रष्टाः वा कर्मचारिणः निष्काष्यन्ते।  एकस्य ज्येष्ठ-अधिकारिण: कथनानुसारं बुधवासरे ज्येष्ठ-अधिकारिणौ कार्यमुक्तौ। एतयो: एकः सीबीआई द्वारा हैदराबादनगरे पञ्चलक्षरुप्यकाणां कृते तथा च त्रिलक्षरुप्यकाणां कृते द्वितीय: गृहीतौ आस्ताम्। अधिकारिणा उक्तं यत्  मन्त्रिण: अश्विनीवैष्णवस्य सन्देशः स्वयं स्पष्ट: अस्ति  - कार्यं क्रियताम् गृहे उपविश्यतां वा।

अद्यतनवार्ता

भारतम्

विश्वम्