Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रायश: समग्रे देशे मेघराज: अत्यधिक: प्रसन्न: अस्ति। तत्रापि उत्तरभारते परिस्थिति: विकटा दृश्यते। हरियाणाराज्यस्य हथनीकुण्डजलाशयात् जलविमोचनेन यमुनानद्याः जलस्तरस्य वर्धनेन दिल्ली-नगरे जलप्लावनस्थितिः वर्तते। गुरुवासरे सायं ६ वादनपर्यन्तं यमुनानगरस्य जलस्तरः २०८.६६ मीटर् यावत् अभवत्। एतत् संकटचिह्नं २०५ मीटर् इत्यस्मात् ३ मीटर् अधिकम् अस्ति। 

वजीराबादतः ओखलापर्यन्तं यमुना २२ कि.मी दूरे अस्ति। गुरुवासरस्य अपराह्णपर्यन्तं यदा जलस्तरः २०९ मीटर् यावत् भवति तदा अधिकांशक्षेत्राणि प्लाविताः भविष्यन्ति इति केन्द्रीयजलायोगः आशङ्कितः अस्ति। अत्र एनडीआरएफदलस्य १२ दलाः नियोजिताः सन्ति। २७०० आपत्शिबिराणि स्थापितानि सन्ति। निम्नक्षेत्रेभ्यः १६,००० तः अधिकाः जनाः निष्कास्य सुरक्षितस्थानेषु नीताः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्