Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रियसुरक्षामन्त्रज्ञः अजीतडोभालः रूसस्य राष्ट्रपतिः व्लादिमीर् पुतिन् इत्यनेन सह मिलितवान्। उभावपि भारत-रूस-रणनीतिविषये द्विपक्षीयसम्बन्धस्य चर्चां कृतवन्तौ । मास्कोनगरे स्थितेन भारतीयदूतावासेन एतस्य विषये सूचना दत्ता ।

अफगानिस्तानविषये बहुपक्षीयसुरक्षासमागमे भागं ग्रहीतुं डोभालः मोस्कोनगरम् आगतः अस्ति। अत्रान्तरे भारत-रूस-रणनीतौ कार्यन्वयनार्थमपि सहमतिः प्राप्ता। अफगानिस्तानविषये सुरक्षापरिषदः सचिवस्य पञ्चमसमागमे एनएसए-डोभालः अवदत् यत् अफगानिस्तानदेशः सङ्कटापन्नः अस्ति। भारतं अफगानिस्तानजनान् आवश्यकताकाले कदापि न त्यक्ष्यति। भारतेन अफगानिस्तानाय सङ्कटसमये ४०,००० मेट्रिकटन गोधूमं, ६० टन औषधानि, पञ्चलक्षमात्रायां Covid सूच्यौषधस्य प्रेषणं कृत्वा साहाय्यं कृतम् अस्ति।

 

अद्यतनवार्ता

भारतम्

विश्वम्