Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजराते पुनश्च भाजपासर्वकारः। भारतीयजनतापक्षेण 156 विधानसभास्थानेषु विजयं प्राप्य माधवसिंहस्य 149 स्थानानां विक्रमः त्रोटितः भा.ज.पक्षेण गतविधासभाया: अपेक्षया 57 अधिकस्थानेषु विजयः प्राप्तः। तथैव कोंग्रेसपक्षस्य 77 तः 17 स्थानेषु अपगतः। कोंग्रेसदलस्य 44 प्रत्याशिनां, आपदलस्य 128 प्रत्याशिनां निक्षेपः अपि गतः। आपदलस्य नि:शुल्क-मिष्टान्नस्य प्रयोगः भवतु नाम पञ्जाबे सफलः जातः परन्तु गुजराते निष्फलः जातः। गुजरातजनैः भा.ज.पक्षस्य अखण्डः विश्वासः स्थापितः इति सिद्धम्। 

 

अद्यतनवार्ता

भारतम्

विश्वम्