इजरायल-ईरान-युद्धकाले भारतस्य “ऑपरेशन सिन्धु” अन्तर्गतं इरान्-देशात् अद्यावधि आहत्य १७१३ भारतीयाः स्वदेशं प्रत्यागता: सन्ति । इरान्-देशस्य मशहद्-नगरात् अन्यत् विमानं रविवासरे (जून-मासस्य २२) रात्रौ २८५ नागरिकान् वहत् नवदेहलीं प्राप्तम् । पूर्वं जूनमासस्य २१ दिनाङ्के ६०० भारतीयाः, जूनमासस्य २० दिनाङ्के ४०७, जूनमासस्य १९ दिनाङ्के ११०, ततः ३११ भारतीयाः देहलीनगरं प्राप्तवन्तः । केन्द्रीयविदेशराज्यमन्त्री पबित्रा मार्गेरिटा उक्तवती यत् 'इरानदेशात् २८५ भारतीयनागरिकान् वहत् विशेषविमानं नूतनदिल्लीं प्राप्तम्। तस्मिन् विमाने मुख्यतया बिहार-जम्मू-कश्मीर-दिल्ली-उत्तरप्रदेश-राजस्थान-गुजरात-महाराष्ट्र-आदिनां १० राज्यानां २८५ भारतीयनागरिकाः आसन् । इरानदेशात् निष्कासितानां भारतीयनागरिकाणां आहत्यसंख्या अधुना १७१३ प्राप्ता अस्ति।