Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य पेशावरनगरे सोमवासरे पुलिसलाईन इति स्थाने मस्जिदपरिसरे आत्मघाति-आक्रमणं जातम्। घटनायामस्यां ४६ पुलिसकर्मचारिणः मृताः। १५७ जनाः आहताः सन्ति । एतेषु ६६ जनानां स्थितिः गम्भीरा अस्ति । विस्फोटः एतावत् प्रबलः आसीत् यत् तस्य शब्दः प्रायः द्वौ किलोमीटर् यावत् दूरे श्रूयते स्म । मस्जिदस्य विशालः भागः पतितः । इमाम नूर-अल्-अमीन् अपि मृतः । पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः चिकित्सालयं प्राप्य आहतैः सह मिलितवान् अस्ति। एकः प्रत्यक्षदर्शी अवदत् यत् अपराह्णे प्रार्थनायाः समये मस्जिदे ५०० जनाः उपस्थिताः आसन्। मध्यपङ्क्तौ आत्मघाती आक्रमणकारी उपस्थितः आसीत् । सः कथं पुलिसलाइनस्थाने प्राप्तवान् इति स्पष्टं नास्ति, यतः प्रवेशार्थं अनुमतिपत्रं दर्शनीयं भवति।

अद्यतनवार्ता

भारतम्

विश्वम्