Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य आक्रमणस्य प्रतिकारं कुर्वतः अभिनन्दनस्य विमानं क्षतिग्रस्तं जातं येन सः पाकिस्तानाधिकृतकश्मीरे पतितः पाकिस्तानसेनया गृहीतः च। एतस्य पुष्टिः पाकिस्तानसेनायाः प्रवक्त्रा आसिफ-गफूरेण अपि कृता । भारतेन शीघ्रमेव तस्य सुरक्षितमुक्त्यर्थं उग्रतया उक्तमस्ति । अन्ताराष्ट्रिय-जिनेवा-सन्धेः अनुसारं युद्धबन्दिनम् अपमानयितुं भाययितुम् आतङ्कयितुं वा न शक्यते । तेन सह मानवतापूर्णः व्यवहारः करणीयः भवति ।

कारगीलयुद्धसमये अपि नचिकेता नाम्नः एकः विमानचालकः गृहीतः आसीत् । भारतसर्वाकरस्य कूटनीतिकारणात् अन्ताराष्ट्रिय-हस्तक्षेप-कारणात् तस्य मुक्तिः अभवत् ।

अद्यतनवार्ता

भारतम्

विश्वम्