Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री मोदी दिल्लीनगरस्य तालकटोराक्रीडाङ्गणे 'परीक्षा पे चर्चा - २०२३’ इति कार्यक्रमस्य भागरूपेण छात्रैः, शिक्षकैः, अभिभावकैः च सह संवादं कृतवान्। कार्यक्रमेऽस्मिन् 200 छात्राः शिक्षकाः च भागं गृहीतवन्तः यस्मिन् कला-उत्सवप्रतियोगितायाः ८० विजेतारः, देशस्य १०२ छात्राः, शिक्षकाः च आसन् । अस्मिन् वर्षे ३८ लक्षाधिकाः छात्राः कार्यक्रमे सम्मिलितुं पञ्जीकरणं कृतवन्तः।

प्रधानमन्त्रिणा उपदिष्टं यत् प्रथमं कार्यं अवगच्छन्तु। अस्माकं या इच्छा अस्ति तदर्थं सम्यक् ध्यानं दातव्यम्। यदि अहं किमपि साधयितुम् इच्छामि तर्हि मया विशिष्टक्षेत्रे ध्यानं दातव्यं, तदा एव परिणामः आगमिष्यति। अस्माभिः कठिनं कार्यं कुशलतया कर्तव्यम्, तदा एव वयं उत्तमं परिणामं प्राप्नुमः।

'परीक्षा पे चर्चा' मम अपि परीक्षा अस्ति, देशस्य कोटिशः छात्राः मम परीक्षां ददति। एतां परीक्षां दत्वा मम आनन्दः भवति। परिवारस्य स्वसन्ततिभ्यः अपेक्षाः भवन्ति तत् स्वाभाविकं, परन्तु केवलं सामाजिकप्रदर्शनं भयङ्करं भवति। ध्येयप्राप्तये एकाग्रतावर्धनाय धार्मिकव्रतवत् इव डिजीटल्-व्रतम् अपि आचरणीयम्।

अद्यतनवार्ता

भारतम्

विश्वम्