पेरिस-ओलम्पिकक्रीडायां ११ तमे दिने भारतस्य स्वर्णयुवक: नीरज चोपड़ा कुन्तलक्षेपणस्य अन्तिमपक्षे योग्यतां प्राप्तवान्। नीरजः मंगलवासरे कुन्तलक्षेपणस्य योग्यताचक्रे ८९.३४ मीटर् परिमितं क्षेपणं कृतवान्। एषः नीरजस्य सर्वोत्तमः क्षेपः आसीत्। नीरजस्य प्रतिद्वन्द्वी ग्रेनेडादेशस्य एण्डर्सन् पीटर्स् ८८.६३ मीटर् क्षेपणं कृतवान्, पाकिस्तानस्य अर्शद् नदीमः च ८६.५९ मीटर् क्षेपणं कृत्वा अन्तिमपर्यन्तं योग्यतां प्राप्तवान् ।





















