Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बुधवासरे नूतनसंसद्भवने अद्वितीया नवीना च परम्परा सर्वै: दृष्टा। भारतीयराजनीतेः नूतनसांस्कृतिकप्रतीकरूपेण उद्भूतस्य सेङ्गोलस्य अर्थसंकल्पसत्रस्य आरम्भावसरे राष्ट्रपतिद्रौपदीमुर्मू इत्यस्य स्वागताय अपि च सत्रान्तरे प्रयोग: आरब्ध:। राष्ट्रपति: द्रौपदी मुर्मू इत्यस्या: संसद्सङ्कुलं प्रति आगमनात् पूर्वम् सभापतिपीठस्य दक्षिणकोणे तस्य कृते निर्दिष्टस्थानात् सेङ्गोलं बहिः निष्कास्य गजद्वारं प्रति पूर्णसम्मानेन नीतः, यत्र उपराष्ट्रपतिः जगदीपधनखड:, प्रधानमन्त्री नरेन्द्रमोदी , लोकसभा-अध्यक्षः ओम बिरला तथा प्रह्लादजोशी तस्य प्रतीक्षां कुर्वन्तः आसन्।

अद्यतनवार्ता

भारतम्

विश्वम्