Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अविश्वासप्रस्तावस्य आरम्भ: राहुलस्य स्थाने गौरवगोगाईद्वारा अभवत्। गौरवगोगोई लोकसभावादविवादे उक्तवान् यत्, "अविश्वासप्रस्तावेन वयं तस्य मौनं भङ्गयितुम् इच्छामः। प्रधानमन्त्री मोदी राज्यसभायां लोकसभायां वा किमर्थं न वदति, सः अद्यापि मणिपुरं किमर्थं न गतः?" मणिपुरविषये वक्तुं किमर्थं अशीतिदिनानि यावत् समयः अभवत् ? यदा सः उक्तवान् तदपि केवलं ३० निमेषान् यावत्! अद्यपर्यन्तं शोकवचनं न व्यक्तम्। प्रधानमन्त्री इति कारणतः तस्य वचनस्य महत्त्वं अधिकमस्ति। मणिपुरस्य मन्त्रीं किमर्थं न निष्कासित:? यदा गुजरातदेशे राजनीतिः कर्तव्या आसीत् तदा एकवारं न अपितु द्विवारं मुख्यमन्त्रिण: परिवर्तनं जातम्। उत्तराखण्डे वारत्रयं परिवर्तनं, त्रिपुरायामपि परिवर्तनम्। इति।

अद्यतनवार्ता

भारतम्

विश्वम्