Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारत-ऑस्ट्रेलियादेशयोः मध्ये ICC विश्वचषकस्पर्धाया: अन्तिमा क्रीडा १९ नवम्बर् दिनाङ्के अहमदाबादस्य नरेन्द्रमोदी-क्रीडाङ्गणे भविष्यति। एतत् रोमाञ्चकं भव्यं मेलनं द्रष्टुं प्रधानमन्त्री नरेन्द्रमोदी स्वयं अहमदाबादनगरम् आगमिष्यति। प्रधानमन्त्रिकार्यालयेन प्रधानमन्त्रिण: मेलनं द्रष्टुं निमन्त्रणं स्वीकृतम्। तदतिरिक्तं गृहमन्त्री अमितशाहः अपि उपस्थितः भविष्यति। एतत् एव न, आस्ट्रेलियादेशस्य उपप्रधानमन्त्री रिचर्ड मार्लेस् अपि अस्मिन् मेलने उपस्थितः भविष्यति। एतत् अतिरिक्तं उद्योगिनः मुकेश अम्बानी, गौतम अदानी च उपस्थितौ भविष्यतः। बालिवुड-तारकाः अक्षयकुमारः अजयदेवगन: अन्ये च उपस्थिता: भवितुमर्हन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्